Current Date: 18 Jan, 2025

हनुमान चालीसा (संस्कृत)

- प्रेम प्रकाश दुबे


हदर्पणं नीरजपादयोश्चय ,

गुरो:  पवित्रंमरजसेति कृत्वा !

फलप्रदायी यदयं च सर्वम् ,

रामस्य विमलं यशो वदामि

स्मरामि तुभ्यम् पवनस्य पुत्रम्,

बलेन रिक्तो मतिहीनदास:!

दूरीकरोतू सकलं च दु:खम्,

विघां बलं बुद्धिमपि प्रयच्छ!!

जयतु हनुमदेवो ज्ञानाब्धिश्च गुणागर:!!

जयतुवानरेशश्च त्रिषुलोकेषुकीर्तिमान् !

दुत: कोशलराजस्य शक्तिमांश्च न तत्सम: !

अज्जना जननी यस्य देवो वायु: पिता स्वयम !!

हे व्रजांग माहावीर त्वमेव च सुविक्रम: !

कुत्सितबुद्धिशत्रुस्त्वम सुबुद्धे: परतिपालक: !!

काञ्चनवर्णसंय़ुक्त: वासांसि शोभनानि च !

कर्णयो: कुणडले शुभ्रे कुञ्चतानि कचानि च !

व्रजहस्ती महावीर: ध्वजायुक्तस्तथैव च !

स्कन्धे शोभते यस्य मुञ्जोपवीतसोभनम  !!

नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दन: खलु !

तेजस्वी त्वं च वन्द्यते पृथ्वीतले  !!

विद्यावांश्च गुणागार: कुशलोपि कपीश्वर:!

रामस्य कार्यसिद्धयर्थम् उत्सुको सर्वदैव च!!

राघवेन्द्रचरित्रस्य रसज्ञ: स: प्रतापवान् !

वसन्ति हृदये तस्य सीता रामश्च लक्ष्मण: !!

वैदैही सम्मुखे तेन प्रदर्शिततस्तनु: लघु:!

लंका दग्धा कपिशेन विकटरूपधारणी !!

हता: रूपेण भीमेन सकला: रजनीचरा:!

कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपि:!!

जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा !

रामेण हर्षितो भूत्वा वेष्टितो हृदयेन स:!!

पाशंसत् मनसा राम: कपीशं बलपुंगवम !

प्रियं समं मदर्थत्वम् कैकेयीनन्दनेन च !!

यशो मुखै: सहस्रश्च गीयते तव वानर !

हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दन:!!

सनकादिसमा:सर्वेदेवा:ब्रह्मादियोपि च !

भारतिसहित: शेषो देवर्षि: नारद: खलु !!

कुबेरो यमराजश्च दिक्पाल: सकला: स्वयम् !

पणिडता: कवय:सर्वे शक्ता: न कीर्तिमण्डने !!

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।